भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.060

6.060.01

श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥

6.060.02

ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊळ्हाः ।
दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥

6.060.03

आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् ।
युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥

6.060.04

ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् ।
इन्द्राग्नी न मर्धतः ॥

6.060.05

उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
ता नो मृळात ईदृशे ॥

6.060.06

हतो वृत्राण्य् आर्या हतो दासानि सत्पती ।
हतो विश्वा अप द्विषः ॥

6.060.07

इन्द्राग्नी युवाम् इमे3 ऽभि स्तोमा अनूषत ।
पिबतं शम्भुवा सुतम् ॥

6.060.08

या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
इन्द्राग्नी ताभिर् आ गतम् ॥

6.060.09

ताभिर् आ गच्छतं नरोपेदं सवनं सुतम् ।
इन्द्राग्नी सोमपीतये ॥

6.060.10

तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
कृष्णा कृणोति जिह्वया ॥

6.060.11

य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः ।
द्युम्नाय सुतरा अपः ॥

6.060.12

ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः ।
इन्द्रम् अग्निं च वोळ्हवे ॥

6.060.13

उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।
उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥

6.060.14

आ नो गव्येभिर् अश्व्यैर् वसव्यै3र् उप गच्छतम् ।
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥

6.060.15

इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।
वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc