ऋग्वेद · अध्याय 6.059
प्र नु वोचा सुतेषु वां वीर्या3 यानि चक्रथुः ।
हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥
बळ् इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ ।
समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ॥
ओकिवांसा सुते सचाँ अश्वा सप्ती इवादने ।
इन्द्रा न्व् अ1ग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥
य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा ।
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ॥
इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति ।
विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ॥
इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः ।
हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ॥
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।
मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ॥
इन्द्राग्नी तपन्ति माघा अर्यो अरातयः ।
अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ॥
इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा ।
आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥
इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता ।
विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0