भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.058

6.058.01

शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥

6.058.02

अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः ।
अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना देव ईयते ॥

6.058.03

यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति ।
ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥

6.058.04

पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा दस्मवर्चाः ।
यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc