भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.057

6.057.01

इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
हुवेम वाजसातये ॥

6.057.02

सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् ।
करम्भम् अन्य इच्छति ॥

6.057.03

अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता ।
ताभ्यां वृत्राणि जिघ्नते ॥

6.057.04

यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः ।
तत्र पूषाभवत् सचा ॥

6.057.05

ताम् पूष्णः सुमतिं वयं वृक्षस्य प्र वयाम् इव ।
इन्द्रस्य चा रभामहे ॥

6.057.06

उत् पूषणं युवामहे ऽभीशूँर् इव सारथिः ।
मह्या इन्द्रं स्वस्तये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc