ऋग्वेद · अध्याय 6.056
य एनम् आदिदेशति करम्भाद् इति पूषणम् ।
न तेन देव आदिशे ॥
उत घा स रथीतमः सख्या सत्पतिर् युजा ।
इन्द्रो वृत्राणि जिघ्नते ॥
उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् ।
न्य् ऐरयद् रथीतमः ॥
यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः ।
तत् सु नो मन्म साधय ॥
इमं च नो गवेषणं सातये सीषधो गणम् ।
आरात् पूषन्न् असि श्रुतः ॥
आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् ।
अद्या च सर्वतातये श्वश् च सर्वतातये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0