ऋग्वेद · अध्याय 6.052
न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः ।
उब्जन्तु तं सुभ्व1ः पर्वतासो नि हीयताम् अतियाजस्य यष्टा ॥
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् ।
तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥
किम् अङ्ग त्वा ब्रह्मणः सोम गोपां किम् अङ्ग त्वाहुर् अभिशस्तिपां नः ।
किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥
अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः ।
अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ ॥
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् ।
तथा करद् वसुपतिर् वसूनां देवाँ ओहानो ऽवसागमिष्ठः ॥
इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना ।
पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः पितेव ॥
विश्वे देवास आ गत शृणुता म इमं हवम् ।
एदम् बर्हिर् नि षीदत ॥
यो वो देवा घृतस्नुना हव्येन प्रतिभूषति ।
तं विश्व उप गच्छथ ॥
उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये ।
सुमृळीका भवन्तु नः ॥
विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः ।
जुषन्तां युज्यम् पयः ॥
स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा ।
इमा हव्या जुषन्त नः ॥
इमं नो अग्ने अध्वरं होतर् वयुनशो यज ।
चिकित्वान् दैव्यं जनम् ॥
विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच् च मन्म ।
मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा मदेम ॥
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।
ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः ॥
अग्नीपर्जन्याव् अवतं धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिं नः ।
इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे ॥
स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे ।
अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0