भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.048

6.048.01

यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे ।
प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न शंसिषम् ॥

6.048.02

ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥

6.048.03

वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा ।
अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि ॥

6.048.04

महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना ।
अर्वाचः सीं कृणुह्य् अग्ने ऽवसे रास्व वाजोत वंस्व ॥

6.048.05

यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति ।
सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥

6.048.06

आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि ।
तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा ॥

6.048.07

बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा ।
भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥

6.048.08

विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् ।
शतम् पूर्भिर् यविष्ठ पाह्य् अंहसः समेद्धारं शतं हिमाः स्तोतृभ्यो ये च ददति ॥

6.048.09

त्वं नश् चित्र ऊत्या वसो राधांसि चोदय ।
अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ॥

6.048.10

पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः ।
अग्ने हेळांसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च ॥

6.048.11

आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः ।
सृजध्वम् अनपस्फुराम् ॥

6.048.12

या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत ।
या मृळीके मरुतां तुराणां या सुम्नैर् एवयावरी ॥

6.048.13

भरद्वाजायाव धुक्षत द्विता ।
धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ॥

6.048.14

तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् ।
अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥

6.048.15

त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं सं यथा शता ।
सं सहस्रा कारिषच् चर्षणिभ्य आँ आविर् गूळ्हा वसू करत् सुवेदा नो वसू करत् ॥

6.048.16

आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे ।
अघा अर्यो अरातयः ॥

6.048.17

मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः ।
मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥

6.048.18

दृतेर् इव ते ऽवृकम् अस्तु सख्यम् ।
अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥

6.048.19

परो हि मर्त्यैर् असि समो देवैर् उत श्रिया ।
अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा ॥

6.048.20

वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता ।
देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥

6.048.21

सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः ।
त्वेषं शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥

6.048.22

सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत ।
पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc