ऋग्वेद · अध्याय 6.044
यो रयिवो रयिंतमो यो द्युम्नैर् द्युम्नवत्तमः ।
सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥
यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् ।
सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥
येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः ।
सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥
त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् ।
इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ॥
यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः ।
तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ॥
तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि ।
विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ॥
अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् ।
ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः ॥
ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् ।
दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ॥
द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः ।
वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्माँ अविड्ढि ॥
इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि वेनः ।
नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनं त्वाहुः ॥
मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम ।
पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः ॥
उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या ।
त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः ॥
अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा ।
यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम् ॥
अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान ।
तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥
पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः ।
गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः ॥
इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि ।
मत्सद् यथा सौमनसाय देवं व्य् अ1स्मद् द्वेषो युयवद् व्य् अंहः ॥
एना मन्दानो जहि शूर शत्रूञ् जामिम् अजामिम् मघवन्न् अमित्रान् ।
अभिषेणाँ अभ्य् आ3देदिशानान् पराच इन्द्र प्र मृणा जही च ॥
आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अ1स्मभ्यम् महि वरिवः सुगं कः ।
अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम् ॥
आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः ।
अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥
आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः ।
इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥
वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभः स्तियानाम् ।
वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥
अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् ।
अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ॥
अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर् अन्तः ।
अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं निगूळ्हम् ॥
अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक् सप्तरश्मिम् ।
अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0