ग्रंथ पाठ
ऋग्वेद · अध्याय 6.043
6.043.01
यस्य त्यच् छम्बरम् मदे दिवोदासाय रन्धयः ।
अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.02
यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे ।
अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.03
यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः ।
अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.04
यस्य मन्दानो अन्धसो माघोनं दधिषे शवः ।
अयं स सोम इन्द्र ते सुतः पिब ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0