ऋग्वेद · अध्याय 6.041
अहेळमान उप याहि यज्ञं तुभ्यम् पवन्त इन्दवः सुतासः ।
गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥
या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् ।
तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ॥
एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः ।
एतम् पिब हरिवः स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम् ॥
सुतः सोमो असुताद् इन्द्र वस्यान् अयं श्रेयाञ् चिकितुषे रणाय ।
एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ॥
ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरं ते सोमस् तन्वे भवाति ।
शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0