भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.042

6.042.01

प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर ।
अरंगमाय जग्मये ऽपश्चाद्दघ्वने नरे ॥

6.042.02

एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् ।
अमत्रेभिर् ऋजीषिणम् इन्द्रं सुतेभिर् इन्दुभिः ॥

6.042.03

यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ ।
वेदा विश्वस्य मेधिरो धृषत् तं-तम् इद् एषते ॥

6.042.04

अस्मा-अस्मा इद् अन्धसो ऽध्वर्यो प्र भरा सुतम् ।
कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेर् अवस्परत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc