ऋग्वेद · अध्याय 6.038
अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् ।
पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ॥
दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः ।
एयम् एनं देवहूतिर् ववृत्यान् मद्र्य1ग् इन्द्रम् इयम् ऋच्यमाना ॥
तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः ।
ब्रह्मा च गिरो दधिरे सम् अस्मिन् महाँश् च स्तोमो अधि वर्धद् इन्द्रे ॥
वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म ।
वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ॥
एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय ।
महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0