भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.037

6.037.01

अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु ।
कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य ॥

6.037.02

प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् ।
इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ॥

6.037.03

आसस्राणासः शवसानम् अच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः ।
अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि दस्येत् ॥

6.037.04

वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां तुविकूर्मितमः ।
यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि सूरीन् ॥

6.037.05

इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां वृद्धमहाः ।
इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc