ऋग्वेद · अध्याय 6.039
मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः ।
अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥
अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः ।
रुजद् अरुग्णं वि वलस्य सानुम् पणीँर् वचोभिर् अभि योधद् इन्द्रः ॥
अयं द्योतयद् अद्युतो व्य् अ1क्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र ।
इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ॥
अयं रोचयद् अरुचो रुचानो3 ऽयं वासयद् व्य् ऋ1तेन पूर्वीः ।
अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥
नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः ।
अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0