ऋग्वेद · अध्याय 6.036
सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः ।
सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम् ॥
अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय ।
स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ॥
तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् ।
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥
स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः ।
पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा ॥
स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः ।
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0