ऋग्वेद · अध्याय 6.035
कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः ।
कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः ॥
कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीळयासे जयाजीन् ।
त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥
कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ ।
कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥
स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः ॥
तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे ।
मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0