भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.034

6.034.01

सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः ।
पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का ॥

6.034.02

पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः ।
रथो न महे शवसे युजानो3 ऽस्माभिर् इन्द्रो अनुमाद्यो भूत् ॥

6.034.03

न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः ।
यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तद् अस्मै ॥

6.034.04

अस्मा एतद् दिव्य् अ1र्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः ।
जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः ॥

6.034.05

अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि ।
असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc