ऋग्वेद · अध्याय 6.025
या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति ।
ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ॥
आभिः स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र ।
आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः ॥
इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे ।
त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥
शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते ।
तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥
नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध ।
इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ॥
स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते ।
वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥
अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता ।
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये ।
अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥
एवा नः स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः ।
विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0