भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.024

6.024.01

वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी ।
अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः ॥

6.024.02

ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः ।
वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥

6.024.03

अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः ।
वृक्षस्य नु ते पुरुहूत वया व्य् ऊ3तयो रुरुहुर् इन्द्र पूर्वीः ॥

6.024.04

शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः संचरणीः ।
वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥

6.024.05

अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः ।
मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ॥

6.024.06

वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः ।
तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो अश्वाः ॥

6.024.07

न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति ।
वृद्धस्य चिद् वर्धताम् अस्य तनूः स्तोमेभिर् उक्थैश् च शस्यमाना ॥

6.024.08

न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् ।
अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ॥

6.024.09

गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् ।
स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ॥

6.024.10

सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः ।
अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc