भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.023

6.023.01

सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे ।
यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि ॥

6.023.02

यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ ।
यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून् ॥

6.023.03

पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती ।
कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥

6.023.04

गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं ददिर् गाः ।
कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणतः स्तोमवाहाः ॥

6.023.05

अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः ।
सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥

6.023.06

ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः ।
सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥

6.023.07

स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकम् इन्द्र ।
एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥

6.023.08

स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु ।
प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ॥

6.023.09

तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् ।
कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति ॥

6.023.10

एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः ।
असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc