भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.022

6.022.01

य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः ।
यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ॥

6.022.02

तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम् ॥

6.022.03

तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥

6.022.04

तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र ।
कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः ॥

6.022.05

तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः ।
तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ॥

6.022.06

अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन ।
अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥

6.022.07

तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितंसयध्यै ।
स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि ॥

6.022.08

आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा ।
तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥

6.022.09

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् ।
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥

6.022.10

आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् ।
यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ॥

6.022.11

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो ।
न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc