भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.021

6.021.01

इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते ।
धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते वचस्या ॥

6.021.02

तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर् यज्ञवृद्धम् ।
यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥

6.021.03

स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच् चकार ।
कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥

6.021.04

यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु विक्षु ।
कस् ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥

6.021.05

इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः ।
ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥

6.021.06

तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः ।
अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ॥

6.021.07

अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ ।
तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥

6.021.08

स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः ।
त्वं ह्य् आ3पिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ॥

6.021.09

प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य ।
प्र पूषणं विष्णुम् अग्निम् पुरंधिं सवितारम् ओषधीः पर्वताँश् च ॥

6.021.10

इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः ।
श्रुधी हवम् आ हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वद् अस्ति ॥

6.021.11

नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः ।
ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ॥

6.021.12

स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः ।
ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc