ऋग्वेद · अध्याय 6.011
यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुतां न प्रयुक्ति ।
आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥
त्वं होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु ।
पावकया जुह्वा3 वह्निर् आसाग्ने यजस्व तन्व1ं तव स्वाम् ॥
धन्या चिद् धि त्वे धिषणा वष्टि प्र देवाञ् जन्म गृणते यजध्यै ।
वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥
अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची ।
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः ॥
वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः ।
अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥
दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर् इधानः ।
रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0