भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.007

6.007.01

मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् ।
कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥

6.007.02

नाभिं यज्ञानां सदनं रयीणाम् महाम् आहावम् अभि सं नवन्त ।
वैश्वानरं रथ्यम् अध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥

6.007.03

त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः ।
वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ॥

6.007.04

त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः ॥

6.007.05

वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष ।
यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ॥

6.007.06

वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना ।
तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥

6.007.07

वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः ।
परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc