ऋग्वेद · अध्याय 6.006
प्र नव्यसा सहसः सूनुम् अच्छा यज्ञेन गातुम् अव इच्छमानः ।
वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥
स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः ।
यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥
वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति ।
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः ।
अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना ।
शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते वनानि ॥
आ भानुना पार्थिवानि ज्रयांसि महस् तोदस्य धृषता ततन्थ ।
स बाधस्वाप भया सहोभिः स्पृधो वनुष्यन् वनुषो नि जूर्व ॥
स चित्र चित्रं चितयन्तम् अस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।
चन्द्रं रयिम् पुरुवीरम् बृहन्तं चन्द्र चन्द्राभिर् गृणते युवस्व ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0