ऋग्वेद · अध्याय 6.005
हुवे वः सूनुं सहसो युवानम् अद्रोघवाचम् मतिभिर् यविष्ठम् ।
य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥
त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे यज्ञियासः ।
क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरे पावके ॥
त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो वार्याणाम् ।
अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि ॥
यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् ।
तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् ॥
यस् ते यज्ञेन समिधा य उक्थैर् अर्केभिः सूनो सहसो ददाशत् ।
स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥
स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा सहस्वान् ।
यच् छस्यसे द्युभिर् अक्तो वचोभिस् तज् जुषस्व जरितुर् घोषि मन्म ॥
अश्याम तं कामम् अग्ने तवोती अश्याम रयिं रयिवः सुवीरम् ।
अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0