भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.004

6.004.01

यथा होतर् मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।
एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥

6.004.02

स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् ।
विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर् जातवेदाः ॥

6.004.03

द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न शुक्रः ।
वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥

6.004.04

वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् ।
स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥

6.004.05

नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न राष्ट्र्य् अत्य् एत्य् अक्तून् ।
तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत् ॥

6.004.06

आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि भासा ।
चित्रो नयत् परि तमांस्य् अक्तः शोचिषा पत्मन्न् औशिजो न दीयन् ॥

6.004.07

त्वां हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने ।
इन्द्रं न त्वा शवसा देवता वायुम् पृणन्ति राधसा नृतमाः ॥

6.004.08

नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य् अंहः ।
ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc