भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.003

6.003.01

अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे ।
यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥

6.003.02

ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश ।
एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ॥

6.003.03

सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः ।
हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ॥

6.003.04

तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा ।
विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ॥

6.003.05

स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् ।
चित्रध्रजतिर् अरतिर् यो अक्तोर् वेर् न द्रुषद्वा रघुपत्मजंहाः ॥

6.003.06

स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः ।
नक्तं य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन् ॥

6.003.07

दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् ।
घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं सुपत्नी ॥

6.003.08

धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः ।
शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc