ऋग्वेद · अध्याय 6.002
त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे ।
त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥
त्वां हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईळते ।
त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ॥
सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते ।
यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ॥
ऋधद् यस् ते सुदानवे धिया मर्तः शशमते ।
ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥
समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् ।
वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ॥
त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः ।
सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥
अधा हि विक्ष्व् ईड्यो ऽसि प्रियो नो अतिथिः ।
रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ॥
क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः ।
परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः ॥
त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे ।
धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥
वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् ।
समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः ॥
अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः ।
वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0