ऋग्वेद · अध्याय 6.001
त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥
अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् ईड्यः सन् ।
तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥
वृतेव यन्तम् बहुभिर् वसव्यै3स् त्वे रयिं जागृवांसो अनु ग्मन् ।
रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥
पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् ।
नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥
सपर्येण्यः स प्रियो विक्ष्व् अ1ग्निर् होता मन्द्रो नि षसादा यजीयान् ।
तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥
तं त्वा वयं सुध्यो3 नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥
सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा हव्यदातिम् ।
य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥
अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः ।
वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥
आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्य1स् तरुत्रः ।
बृहद्भिर् वाजैः स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं वि भाहि ॥
नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0