ऋग्वेद · अध्याय 5.087
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥
प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् ।
क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ॥
प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् ।
न येषाम् इरी सधस्थ ईष्ट आँ अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥
स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् ।
यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥
स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् ।
येना सहन्त ऋञ्जत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥
अपारो वो महिमा वृद्धशवसस् त्वेषं शवो ऽवत्व् एवयामरुत् ।
स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् ।
दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ॥
अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं जरितुर् एवयामरुत् ।
विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो3 न दंसनाप द्वेषांसि सनुतः ॥
गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् ।
ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0