ऋग्वेद · अध्याय 5.086
इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् ।
दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ॥
या पृतनासु दुष्टरा या वाजेषु श्रवाय्या ।
या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे ॥
तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः ।
प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ॥
ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे ।
पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥
ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा ।
अर्हन्ता चित् पुरो दधे ऽंशेव देवाव् अर्वते ॥
एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः ।
ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0