भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.085

5.085.01

प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय श्रुताय ।
वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥

5.085.02

वनेषु व्य् अ1न्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु ।
हृत्सु क्रतुं वरुणो अप्स्व् अ1ग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥

5.085.03

नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् ।
तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति भूम ॥

5.085.04

उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् ।
सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ॥

5.085.05

इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र वोचम् ।
मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥

5.085.06

इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् आ दधर्ष ।
एकं यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम् ॥

5.085.07

अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं वा ।
वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा शिश्रथस् तत् ॥

5.085.08

कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म ।
सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc