ऋग्वेद · अध्याय 5.075
प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
स्तोता वाम् अश्विनाव् ऋषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥
अत्यायातम् अश्विना तिरो विश्वा अहं सना ।
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥
आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् ।
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥
सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता ।
उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥
बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतं हवम् ॥
आ वां नरा मनोयुजो ऽश्वासः प्रुषितप्सवः ।
वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतं हवम् ॥
अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् ।
तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ॥
अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती ।
अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ॥
अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः ।
अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0