भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.074

5.074.01

कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू ।
तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ॥

5.074.02

कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।
कस्मिन्न् आ यतथो जने को वां नदीनां सचा ॥

5.074.03

कं याथः कं ह गच्छथः कम् अच्छा युञ्जाथे रथम् ।
कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ॥

5.074.04

पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः ।
यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ॥

5.074.05

प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न मुञ्चथः ।
युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ॥

5.074.06

अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये ।
नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ॥

5.074.07

को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् ।
को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू ॥

5.074.08

आ वां रथो रथानां येष्ठो यात्व् अश्विना ।
पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ॥

5.074.09

शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः ।
अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥

5.074.10

अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् ।
वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc