भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.073

5.073.01

यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना ।
यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ॥

5.073.02

इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता ।
वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ॥

5.073.03

ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः ।
पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥

5.073.04

तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे ।
नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ॥

5.073.05

आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा ।
परि वाम् अरुषा वयो घृणा वरन्त आतपः ॥

5.073.06

युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा ।
घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ॥

5.073.07

उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः ।
यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ॥

5.073.08

मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी ।
यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥

5.073.09

सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा ।
ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा ॥

5.073.10

इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा ।
या तक्षाम रथाँ इवावोचाम बृहन् नमः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc