ऋग्वेद · अध्याय 5.069
त्री रोचना वरुण त्रीँर् उत द्यून् त्रीणि मित्र धारयथो रजांसि ।
वावृधानाव् अमतिं क्षत्रियस्यानु व्रतं रक्षमाणाव् अजुर्यम् ॥
इरावतीर् वरुण धेनवो वाम् मधुमद् वां सिन्धवो मित्र दुह्रे ।
त्रयस् तस्थुर् वृषभासस् तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥
प्रातर् देवीम् अदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0