भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.067

5.067.01

बळ् इत्था देव निष्कृतम् आदित्या यजतम् बृहत् ।
वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ॥

5.067.02

आ यद् योनिं हिरण्ययं वरुण मित्र सदथः ।
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥

5.067.03

विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।
व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥

5.067.04

ते हि सत्या ऋतस्पृश ऋतावानो जने-जने ।
सुनीथासः सुदानवो ऽंहोश् चिद् उरुचक्रयः ॥

5.067.05

को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् ।
तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc