ऋग्वेद · अध्याय 5.066
आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥
ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्य1म् आशाते ।
अध व्रतेव मानुषं स्व1र् ण धायि दर्शतम् ॥
ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् ।
रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ॥
अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता ।
नि केतुना जनानां चिकेथे पूतदक्षसा ॥
तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् ।
ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ॥
आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः ।
व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0