ऋग्वेद · अध्याय 5.052
प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः ।
ये अद्रोघम् अनुष्वधं श्रवो मदन्ति यज्ञियाः ॥
ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया ।
ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ॥
ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः ।
मरुताम् अधा महो दिवि क्षमा च मन्महे ॥
मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया ।
विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥
अर्हन्तो ये सुदानवो नरो असामिशवसः ।
प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥
आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत ।
अन्व् एनाँ अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ॥
ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ ।
वृजने वा नदीनां सधस्थे वा महो दिवः ॥
शर्धो मारुतम् उच् छंस सत्यशवसम् ऋभ्वसम् ।
उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥
उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः ।
उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ॥
आपथयो विपथयो ऽन्तस्पथा अनुपथाः ।
एतेभिर् मह्यं नामभिर् यज्ञं विष्टार ओहते ॥
अधा नरो न्य् ओहते ऽधा नियुत ओहते ।
अधा पारावता इति चित्रा रूपाणि दर्श्या ॥
छन्दःस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः ।
ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ॥
य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः ।
तम् ऋषे मारुतं गणं नमस्या रमया गिरा ॥
अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा ।
दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ॥
नू मन्वान एषां देवाँ अच्छा न वक्षणा ।
दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः ॥
प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् ।
अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ॥
सप्त मे सप्त शाकिन एकम्-एका शता ददुः ।
यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0