भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.051

5.051.01

अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि ।
देवेभिर् हव्यदातये ॥

5.051.02

ऋतधीतय आ गत सत्यधर्माणो अध्वरम् ।
अग्नेः पिबत जिह्वया ॥

5.051.03

विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि ।
देवेभिः सोमपीतये ॥

5.051.04

अयं सोमश् चमू सुतो ऽमत्रे परि षिच्यते ।
प्रिय इन्द्राय वायवे ॥

5.051.05

वायव् आ याहि वीतये जुषाणो हव्यदातये ।
पिबा सुतस्यान्धसो अभि प्रयः ॥

5.051.06

इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः ।
ताञ् जुषेथाम् अरेपसाव् अभि प्रयः ॥

5.051.07

सुता इन्द्राय वायवे सोमासो दध्याशिरः ।
निम्नं न यन्ति सिन्धवो ऽभि प्रयः ॥

5.051.08

सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः ।
आ याह्य् अग्ने अत्रिवत् सुते रण ॥

5.051.09

सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना ।
आ याह्य् अग्ने अत्रिवत् सुते रण ॥

5.051.10

सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना ।
आ याह्य् अग्ने अत्रिवत् सुते रण ॥

5.051.11

स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः ।
स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥

5.051.12

स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस् पतिः ।
बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥

5.051.13

विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये ।
देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः ॥

5.051.14

स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।
स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ॥

5.051.15

स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव ।
पुनर् ददताघ्नता जानता सं गमेमहि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc