भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.050

5.050.01

विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥

5.050.02

ते ते देव नेतर् ये चेमाँ अनुशसे ।
ते राया ते ह्य् आ3पृचे सचेमहि सचथ्यैः ॥

5.050.03

अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत ।
आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ॥

5.050.04

यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः ।
नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता ॥

5.050.05

एष ते देव नेता रथस्पतिः शं रयिः ।
शं राये शं स्वस्तय इषःस्तुतो मनामहे देवस्तुतो मनामहे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc