ऋग्वेद · अध्याय 5.049
देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम् आयोः ।
आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना सखीयन् ॥
प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं दुवस्य ।
उप ब्रुवीत नमसा विजानञ् ज्येष्ठं च रत्नं विभजन्तम् आयोः ॥
अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः ।
इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः ॥
तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु ग्मन् ।
उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥
प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः ।
अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0