भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.048

5.048.01

कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् ।
आमेन्यस्य रजसो यद् अभ्र आँ अपो वृणाना वितनोति मायिनी ॥

5.048.02

ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वम् आ रजः ।
अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर् जनः ॥

5.048.03

आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् आ जिघर्ति मायिनि ।
शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च वर्तयन्न् अहा ॥

5.048.04

ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे अस्य वर्पसः ।
सचा यदि पितुमन्तम् इव क्षयं रत्नं दधाति भरहूतये विशे ॥

5.048.05

स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्न् अरिम् ।
न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc