ऋग्वेद · अध्याय 5.047
प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर् बोधयन्ती ।
आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना ॥
अजिरासस् तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् ।
अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति पन्थाः ॥
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश ।
मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥
चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते ।
त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो अन्तान् ॥
इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः ।
द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या3 सबन्धू ॥
वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति ।
उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच्छ ॥
तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् ।
अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0