ऋग्वेद · अध्याय 5.046
हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीम् अवस्युवम् ।
नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति ॥
अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥
इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः पर्वताँ अपः ।
हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं सवितारम् ऊतये ॥
उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् ।
उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥
उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे ।
बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्य1ं वरुणो मित्रो अर्यमा ॥
उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्य1स् त्रामणे भुवन् ।
भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ॥
देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये ।
याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥
उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अ1ग्नाय्य् अश्विनी राट् ।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0