भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.045

5.045.01

विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः ।
अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ॥

5.045.02

वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् ।
धन्वर्णसो नद्य1ः खादोअर्णाः स्थूणेव सुमिता दृंहत द्यौः ॥

5.045.03

अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम ॥

5.045.04

सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अ1ग्नी अवसे हुवध्यै ।
उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥

5.045.05

एतो न्व् अ1द्य सुध्यो3 भवाम प्र दुच्छुना मिनवामा वरीयः ।
आरे द्वेषांसि सनुतर् दधामायाम प्राञ्चो यजमानम् अच्छ ॥

5.045.06

एता धियं कृणवामा सखायो ऽप या माताँ ऋणुत व्रजं गोः ।
यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ॥

5.045.07

अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः ।
ऋतं यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार ॥

5.045.08

विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त ।
उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ॥

5.045.09

आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया दीर्घयाथे ।
रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन् ॥

5.045.10

आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः ।
उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ॥

5.045.11

धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो नवग्वाः ।
अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc