ऋग्वेद · अध्याय 5.036
स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम् ।
धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम् अंशुम् ॥
आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे ।
अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे ॥
चक्रं न वृत्तम् पुरुहूत वेपते मनो भिया मे अमतेर् इद् अद्रिवः ।
रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन् पुरूवसुः ॥
एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः ।
प्र सव्येन मघवन् यंसि रायः प्र दक्षिणिद् धरिवो मा वि वेनः ॥
वृषा त्वा वृषणं वर्धतु द्यौर् वृषा वृषभ्यां वहसे हरिभ्याम् ।
स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन् भरे धाः ॥
यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव् अदिष्ट ।
यूने सम् अस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0