ऋग्वेद · अध्याय 5.032
अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानाँ अरम्णाः ।
महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ॥
त्वम् उत्साँ ऋतुभिर् बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् ।
अहिं चिद् उग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीम् अधत्थाः ॥
त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः ।
य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान् ॥
त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं तमोगाम् ।
वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥
त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म ।
यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥
त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम् ।
तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान ॥
उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् ।
यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमं चकार ॥
त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद् उग्रः ।
अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम् ॥
को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः ।
इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥
न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे ।
सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त ॥
एकं नु त्वा सत्पतिम् पाञ्चजन्यं जातं शृणोमि यशसं जनेषु ।
तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ॥
एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि ।
किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0