भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.031

5.031.01

इन्द्रो रथाय प्रवतं कृणोति यम् अध्यस्थान् मघवा वाजयन्तम् ।
यूथेव पश्वो व्य् उनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥

5.031.02

आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व ।
नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनाँश् चिज् जनिवतश् चकर्थ ॥

5.031.03

उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा ।
प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा संववृत्वत् तमो ऽवः ॥

5.031.04

अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् ।
ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥

5.031.05

वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः ।
अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून् ॥

5.031.06

प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ ।
शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः ॥

5.031.07

तद् इन् नु ते करणं दस्म विप्राहिं यद् घ्नन्न् ओजो अत्रामिमीथाः ।
शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप दस्यूँर् असेधः ॥

5.031.08

त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र ।
उग्रम् अयातम् अवहो ह कुत्सं सं ह यद् वाम् उशनारन्त देवाः ॥

5.031.09

इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु ।
निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो वरथस् तमांसि ॥

5.031.10

वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः ।
विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन् ॥

5.031.11

सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं जूजुवांसम् ।
भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति क्रतुं नः ॥

5.031.12

आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम् इच्छन् ।
वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश् चरन्ति ॥

5.031.13

ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् ।
वावन्धि यज्यूँर् उत तेषु धेह्य् ओजो जनेषु येषु ते स्याम ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc